|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.89. अध्यायः 089
अश्वमेधपर्व ॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Topics
बभ्रुवाहनेनोलूपीचित्राङ्गदाभ्यां सह यागदिदृक्ष्या हास्तिनपुरं प्रत्यागमनम्॥ 1 ॥ ततः स्वयं समागतव्यासाज्ञय युधिष्ठिरेण ऋत्विग्भिः सहाश्वमेधोपक्रमः॥ 2 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
वैशम्पायन उवाच।
एतस्मिन्नेव काले तु स राजा बभ्रुवाहनः।
मातृभ्यां सहितो धीमान्कुरूनभ्याजगाम ह॥ 14-89-1(94981)
तत्र वृद्धान्यथावत्स कुरूनन्यांश्च पार्थिवान्।
अभिवाद्य महाबाहुस्तैश्चापि प्रतिनन्दितः।
प्रविवेश पितामह्याः कुन्त्या भवनमुत्तमम्॥ 14-89-2(94982)
स प्रविश्य महाबाहुः पाण्डवानां निवेशनम्।
पितामहीमभ्यवन्दत्साम्ना परमवल्गुना॥ 14-89-3(94983)
तथा चित्राङ्गदा देवी कौरवस्यात्मजाऽपि च।
पृथां कृष्णां च सहिते विनयेनोपजग्मतुः।
सुभद्रां च यथान्यायं याश्चान्याः कुरुयोषितः॥ 14-89-4(94984)
ददौ कुन्ती ततस्ताभ्यां रत्नानि विविधानि च।
द्रौपदी च सुभद्रा च याश्चाप्यन्या यदुस्त्रियः॥ 14-89-5(94985)
ऊषतुस्तत्र ते देव्यौ महार्ङशयनासने।
सुपूजिते स्वयं कुन्त्या पार्थस्य हितकाम्यया॥ 14-89-6(94986)
स च राजा महातेजाः पूजितो बभ्रुवाहनः।
धूतराष्ट्रं महीपालमुपतस्थे यताविधि॥ 14-89-7(94987)
युधिष्ठिरं च राजानं भीमदींश्चापि पाण्डवान्।
उपागम्य महातेजा विनयेनाभ्यवादयत्॥ 14-89-8(94988)
स तैः प्रेम्या परिष्वक्तः पूजितश्च यथाविधि।
धनं चास्मै ददुर्भूरि प्रीयमाणा महारथाः॥ 14-89-9(94989)
तथैव च महीपालः कृष्णं चक्रगदाधरम्।
प्रद्युम्न इव गोविन्दं विनयेनोपतस्थिवान्॥ 14-89-10(94990)
तस्मै कृष्णो ददौ राज्ञे महार्हमतिपूजितम्।
रथं हेमपरिष्कारं दिव्याश्वयुजमुत्तमम्॥ 14-89-11(94991)
धर्मराजश्च भीमश्च फल्गुनश्च यमौ तथा।
पृथक्पृथक् च ते चैनं मानार्थाभ्यामयोजयन्॥ 14-89-12(94992)
ततस्तृतीये दिवसे सत्यवत्यात्मजो मुनिः।
युधिष्ठिरं समभ्येत्य वाग्मी वचनमब्रवीत्॥ 14-89-13(94993)
अद्यप्रभृति कौन्तेय यज्ञस्य समयो हि ते।
मुहूर्तो यज्ञियः प्राप्तश्चोदयन्तीह याजकाः॥ 14-89-14(94994)
अहीनो नाम राजेन्द्र क्रतुस्तेऽयं विकल्पवान्।
बहुत्वात्काञ्चनस्यास्य ख्यातो बहुसुवर्णकः॥ 14-89-15(94995)
एवमत्र महाराज दक्षिणाभिर्गुणीकुर।
श्रीस्त्वां व्रजतु ते राजन्ब्राह्मणा ह्यत्र कारणम्॥ 14-89-16(94996)
त्रीनश्वमेधानत्र त्वं सम्प्राप्य बहुदक्षिणान्।
ज्ञातिवध्याकृतं पापं प्रहास्यति नराधिप॥ 14-89-17(94997)
पवित्रं परमं चैतत्पावनानां च पावनम्।
यदश्वमेधावभृथं प्राप्स्यसे कुरुनन्दन॥ 14-89-18(94998)
इत्युक्तः स तु तेजस्वी व्यासेनामितबुद्धिना।
दीक्षां विवेश धर्मात्मा वाजिमेधाप्तये ततः॥ 14-89-19(94999)
ततो यज्ञं महाबाहुर्वाजिमेधं महाक्रतुम्।
बह्वन्नदक्षिणं राजा सर्वकामगुणान्वितम्॥ 14-89-20(95000)
तत्र वेदविदो राजंश्चक्रुः कर्माणि याजकाः।
परिक्रामन्ति शास्त्रज्ञा यतावद्द्विजसत्तमाः॥ 14-89-21(95001)
न तेषां स्खलितं किञ्चिदासीदपहुतं तथा।
क्रमयुक्तं च युक्तं च चक्रुस्तत्र द्विजर्षभाः॥ 14-89-22(95002)
कृत्वा प्रवर्ग्यं धर्मज्ञा यथावद्द्विजसत्तमाः।
चक्रस्ते विधिवद्राजंस्तथैवाभिषवं द्विजाः॥ 14-89-23(95003)
अभिषूय ततो राजन्सोमं सोमपसत्तमाः।
सवनान्यानुपूर्व्येण चक्रुः सास्त्रानुसारिणः॥ 14-89-24(95004)
न तत्र कृपणः कश्चिन्न दरिद्रो बभूव ह।
क्षुधितो दुःखितो वाऽपि प्राकृतो वाऽपि मानवः॥ 14-89-25(95005)
भोजनं भोजनार्थिभ्यो दापयामास शत्रुहा।
भीमसेनो महातेजाः सततं राजशासनात्॥ 14-89-26(95006)
संस्तरे कुशलाश्चापि सर्वकार्याणि याजकाः।
दिवसेदिवसे चक्रुर्यथाशास्त्रानुदर्शात्॥ 14-89-27(95007)
नाषडङ्गविदत्रासीत्सदस्यस्तस्य धीमतः।
नाव्रतो नानुपाध्यायो न च वादाविचक्षणः॥ 14-89-28(95008)
ततो यूपोच्छ्रये प्राप्ते षड् बैल्वान्भरतर्षभ।
खादिरान्बिल्वसमितांस्तावतः सर्ववर्णिनः॥ 14-89-29(95009)
देवदारुमयौ द्वौ तु यूपौ कुरुपतेर्मखे।
श्लेष्मातकमयं चैकं याजकाः समकल्पयन्॥ 14-89-30(95010)
`सर्वानेतान्यथाशास्त्रं याजकाः समकारयन्।'
शोभार्थं चापरान्यूपान्काञ्चनान्भरतर्षभ।
स भीमः कारयामास धर्मराजस्य शासनात्॥ 14-89-31(95011)
ते व्यराजन्त राजर्षे वासोभिरुपशोभिताः।
महेन्द्रानुगता देवा यथा सप्तर्षिभिर्दिवि॥ 14-89-32(95012)
इष्टकाः काञ्चनीश्चात्र चयनार्तं कृता विभो।
शुशुभे चयनं तच्च दक्षस्येव प्रजापतेः॥ 14-89-33(95013)
चतुश्चित्यश्च तस्यासीदष्टादशकरात्मकः।
स रुक्मपक्षो निचितस्त्रिकोणो गरुडाकृतिः॥ 14-89-34(95014)
ततो नियुक्ताः पशवो यथाशास्त्रं मनीषिभिः।
तं तं देवं समुद्दिश्य पक्षिणः पशवश्च ये॥ 14-89-35(95015)
ऋषभाः शास्त्रपठितास्तथा जलचराश्च ये।
सर्वांस्तानभ्ययुञ्जंस्ते तत्राग्निचयकर्मणि॥ 14-89-36(95016)
यूपेषु नियता चासीत्पशूनां त्रिशती तथा।
अश्वरत्नोत्तरा यज्ञे कौन्तेयस्य महात्मनः॥ 14-89-37(95017)
स यज्ञः शुशुभे तस्य साक्षाद्देवर्षिसंकुलः।
गन्धर्वगणसंकीर्णः शोभितोऽप्सरसां गणैः॥ 14-89-38(95018)
स किंपुरुषसंकीर्णः किंनरैश्चोपशोभितः।
सिद्धविप्रनिवासैश्च समन्तादभिसंवृतः॥ 14-89-39(95019)
तस्मिन्सदसि नित्यास्तु व्यासशिष्या द्विजर्षभाः।
सर्वशास्त्रप्रणेतारः कुशला यज्ञकर्मसु॥ 14-89-40(95020)
नारदश्च बभूवात्र तुंबुरुश्च महाद्युतिः।
विश्वावसुश्चित्रसेनस्तथाऽन्ये गीतकोविदाः॥ 14-89-41(95021)
गन्धर्वा गीतकुशला नृत्येषु च विशारदाः।
रमयन्ति स्म तान्विप्रान्यज्ञकर्मान्तरेषु वै॥ ॥ 14-89-42(95022)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकोननवतितमोऽध्यायः॥ 89 ॥
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-89-15 अहीनः अह्नां सोमयागानां बहूनां समूहोऽहीनः। न हीनः द्रव्यादिना इति वा॥ 7-89-23 अभिषव सोमवल्ल्याः कण्डनम्॥ 7-89-24 सोमं सोमवल्लीरसम्। सवनानि प्रातःसवनादीनि॥ 7-89-27 संस्तरे इष्टकानां चयनाख्ये स्थण्डिलरचने॥ 7-89-29 वर्णिनः पलाशकाष्ठमयाः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|